जनक उवाच ।। कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति । वैराग्यं च कथं प्राप्तं एतद् ब्रूहि मम प्रभो ।। १-१ ।। अष्टावक्र उवाच ।। मुक्तिम् इच्छसि चेतात विषयान् विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद् भज ।। १-२।। न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् । एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ।। १-३ ।। यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि । अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ।। १-४ ।। न त्वं विप्रादिको वर्ण: नाश्रमी नाक्षगोचर: । असङगोऽसि निराकारो विश्वसाक्षी सुखी भव ।। १-५ ।। धर्मा धर्मौ सुखं दुखं मानसानि न ते विभो । न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ।। १-६ ।। एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा । अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ।। १-७ ।। अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः । नाहं कर्तेति विश्वासामृतं पीत्वा सुखं भव ।। १-८ ।। एको विशुद्धबोधोऽहं इति निश्चयवह्निना । प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ।। १-९ ।। यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् । अानन्दपरमानन्दः स बोधस्त्वं सुखं भव ।। १-१० ।। मुक्ताभिमानी मुक्तो हि बद्धौ बद्धाभिमान्यपि । किंवदन्तीह सत्येयं या मतिः सा गातिर्भवेत ।। १-११ ।। अात्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः । असंगो निःस्पृहः शान्तो भ्रमात्सणसंसारवानिव ।। १-१२ ।। कूटस्थं बोधमद्वैतमात्मानं परिभावय । अाभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ।। १-१३ ।। देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक । बोधोऽहं ज्ञानखंगेन तः निकृत्य सुखी भव ।। १-१४ ।। निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः । अयमेव हि ते बंघः समाधिमनुतिष्ठति ।। १-१५ ।। त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः । शुद्धबुद्धस्त्वं मा गमः क्षुद्रचित्तताम् ।। १-१६ ।। निरपेक्षो निर्विकारो निर्भरः शीतलाशयः । अगाधबुद्धिरक्षुब्धो भव चिन्मित्रवासन: ।। १-१७ ।। साकारमनृतं विद्धि निराकारं तु निश्चलं । एतत्तत्त्वोपदेशेन न पुनर्भवसंभव: ।। १-१८ ।। यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः । तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ।। १-१९ ।। एकं सर्वगतं व्योम बहिरन्तर्यथा घटे । नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ।। १-२० ।। जनक उवाच ।। सशरीरमिदं विश्वं न किंचिदिति निश्चितं । शुद्धचिन्मात्र अात्मा च तत्कस्मिन् कल्पनाधुना ।। २-१९ ।। शरीरं स्वर्गनरकौ बंधमोक्षौ भयं तथा । कल्पनामात्रमेवैतत् किं मे कार्यम् चिदात्मनः ।। २-२० ।। नाहं देहो न मे देहो जीवो नाहमहं हि चित् । अयमेव हि मे बन्ध अासीद्या जीविते स्पृहा ।। २-२२ ।।